अवनितलं पुनरवतीर्णा
अवनितलं
पुनरवतीर्णा स्यात्
संस्कृत गङ्गाधारा ऽऽऽ ।
धीर भगीरथ वंशोऽस्माकं -2
वयं तु कृत निर्धारा ऽऽऽऽ ॥ 2
निपततु पण्डित हरसिरसि
प्रवहतु नित्यमिदं वचसि ।
प्रविशतु वैयाकरणमुखम्
पुनरपि वहता जनमनसि ॥
पुत्र सहस्रं समुद्धृतं स्यात् - 2
यान्तु च जन्म विकारा: ॥ धीर भगीरथ......॥
ग्रामं ग्रामं गच्छाम:
संस्कृत शिक्षां यच्छाम :
सर्वेषामपि तृप्ति हितार्थं
स्वक्लेशं नहि गणयेम
कृते प्रयत्ने किं न लभते - 2
एवं सन्ति विचारा: ॥ धीर भगीरथ......॥
या माता संस्कृति मूला
यस्या व्याप्ति: सुविशाला
वाङ्मयरूपा सा भवतु
लसतु चिरं सा वाङ्माला
सुरवाणीं जनवाणीं कर्तुं – 2
यतामहे कृति सूरा: ॥ धीर भगीरथ......॥
मनसा सततम् स्मरणीयम्
(रघुपति राघव राजा राम)
मनसा
सततं स्मरणीयं
वचसा सततं वदनीयम्
लोकहितं मम करणीयम् ।
न भोग-भवने रमणीयम्
न च सुख-शयने शयनीयम् ।
अहर्निशं जागरणीयम् ।
लोकहितं मम करणीयम् ।
न जातु-दुखं गणनीयम्
न च निज-सौख्यं मननीयम् ।
कार्य-क्षेत्रे त्वरणीयम्
लोकहितं मम करणीयम् ।
दुख-सागरे तरणीयम्
कष्ट-पर्वते चरणीयम् ।
विपत्ति-विपिने
भ्रमणीयम्
लोकहितं मम करणीयम् ।
गहनारण्ये घनान्धकारे
बन्धुजना ये स्थिता गह्वरे ।
तत्र मया सञ्चरणीयम्
लोकहितं मम करणीयम् ।
मनसा सततं स्मरणीयं
वचसा सततं वदनीयम्
लोकहितं मम करणीयम् ।
आयाहि रे
आयाहि रे ! आयाहि
रे ! आऽऽयाहि रेऽऽऽ !
याहि
रे ! याहि रे ! याहि रे ! याहि रे ! याऽऽहि !
विहायसि-सराग-रश्मि-चन्द्रमा
तनोति
सान्द्र-रोचि-मञ्जु-चन्द्रिका
सिन्धु-राव-घोषिता:
रोदसि कन्दरा:
यान्तु
यान-पात्र-चालका: सधीवरा: । आऽऽयाहि रे ॥
याहि
रे ! याहि रे ! याहि रे ! याहि रे ! याऽऽहि !
चन्द्रहास-मज्जिता
तामसी-प्रिया
सर्व
देह कान्ति-पुञ्ज-मञ्जु-वल्गना
निश्चला
विभासते तार लोचना
यान्तु
यान-पात्र-चालका: सधीवरा: । आऽऽयाहि रे ॥
याहि
रे ! याहि रे ! याहि रे ! याहि रे ! याऽऽहि !
सागरेण
चुम्बिता चन्द्रिका मुदा
राजते
विलास हास लास्य चित्रिता
रागिणीव
भासते रागरञ्जिता
यान्तु
यान-पात्र-चालका: सधीवरा: । आऽऽयाहि रे ॥
याहि
रे ! याहि रे ! याहि रे ! याहि रे ! याऽऽहि !
pls translate आयाहि रे ! आयाहि रे ! आऽऽयाहि रेऽऽऽ ! in marathi or hindi
ReplyDeleteगीत का अर्थ दीजिये,
ReplyDelete